पूर्वम्: ६।३।१००
अनन्तरम्: ६।३।१०२
सूत्रम्
रथवदयोश्च॥
६।३।१०१
काशिका-वृत्तिः
रथवदयोश् च
६।३।१०२
रथ वद इत्येतयोश्च उत्तरपदयोः कोः कतित्ययम् आदेशो भवति। कद्रथः। कद्वदः।
न्यासः
रथवदयोश्च।
, ६।३।१०१
अनजाद्यर्थोऽयं योगः। एवमुत्तरत्रापि॥
बाल-मनोरमा
रथवदयोश्च
१०१३, ६।३।१०१
रथवदयोश्च। "कोः कत्तत्पुरुषे" इति शेषः। कद्रथः कद्वद इति। "कुगती"ति समासः। वदतीति वदः। कुत्सितो वदः कद्वदः।